नास्त्यत्र स्वल्पतमोऽपि संशीतिलेशो यदस्यां संस्कृतभाषाया-मपारपारावारीणि अनन्तशास्त्ररत्नानि निमग्नानि सन्ति। यो तदन्तस्तले सम्प्राप्यैवाधिगन्तुं शक्यते । तत्र वेदा-वेदाङ्ग-दर्शन-पुराणेतिहास- काव्यादीनि शास्त्राणि, यदेकमेकं शास्त्रं गहनं गभीरानन्तञ्चेति। यावज्जीवनमध्ययनं कृत्वाऽपि मानवेन पारं न पार्यते। अत एव केन विदुषा सत्यमुक्तं यद् अनन्तपारं किल शास्त्रजातम् स्वल्पं तथायुर्बहवश्च विघ्नाः "इति मनसि निधाय चिराय चेतसि समारोपितोऽयं संकल्पकल्पद्रुरद्य भगवदनुकम्पया स्वतन्त्रो गद्यमयः सन्दर्भः छात्राणां संस्कृताध्यायिनामन्तेवासिनाञ्च कृते सौकर्येण शास्त्रपरिचयस्वरूपप्रतिपत्यर्थञ्च सविशेषमेष उपक्रमः। यद्यपि शास्त्रविषयमधिकृत्य यैर्विद्वद्भिः लेखनकार्यं कृतं तदस्ति-
1. संस्कृतशास्त्रों का इतिहास (आचार्य वलदेव उपाध्याय) 2. शास्त्रसर्वस्वम् (आचार्य नवलकिशोर कांकर) 3. भारतीय शास्त्र और शास्त्रकार (डॉ. मृदुला त्रिपाठी)
एतेषु ग्रन्थेषु सर्वशास्त्राणां परिचयो नोपलभ्यते अपि च संस्कृतभाषायां शास्त्राणां एकत्रीभूय परिचयस्याभावं संचिन्त्यैव कार्यमिदं प्रारब्धं मया।
अपि च ग्रन्थेऽस्मिन् वैदिकलौकिकोभयविधशास्त्रसाहित्यस्य समालोचनपुरस्सरं मूलंकशमालोचनं पल्लवितम्। किञ्चात्र "नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते "इति मल्लिनाथोक्तिमनुसृत्यैव सर्वमुट्टङ्कितम् । अत्र वैदिके-वेद-वेदाङ्ग-उपाङ्ग ब्राह्मण आरण्यक उपनिषद्-दर्शनान्तं लौकिके च वाल्मीकिमुनिपादारभ्य महर्षिव्यास- काव्यशास्त्रिणः पर्यन्तं संस्कृतं-वाङ्मयपयोनिधिमुन्मथ्य सारतत्त्वं नवनीतञ्चोध्दृत्य लघुग्रन्थकलशेऽस्मिन् सम्भृतम्। यद्यपि मादृशस्य स्वल्पशक्तिमतस्तादृश विशालवाङ्मय-महार्णवोन्मन्थनेन शास्त्रनवनीतोद्धरणाभिनिवेशोऽयं निश्चितमेव बालचापल-मेवानुहरति । यतोहि निर्बलाङ्गस्य विषमे पथि गमनं दुःसाहसमेव केवलम् । तथापि श्रीमद्गुरुचरणानां भगवत्याश्च सपर्या पर्यत्सुकेन मनसा यन्मयाऽनुष्ठितं तन्न कथञ्चिदप्यधिकृतम्। मया शास्त्रपरिचयः नामको स्वतंत्रो लघुग्रन्थः वीणापाणिसरस्वत्या पादपद्मयोः प्रह्वीभावेन विलिख्य समर्पितः ।
श्रीमद्भगवच्छङ्कराचार्यशब्दैरुपस्तुत्य भगवतीं सरस्वतीं विरमामि-
त्वदीयाभिर्वाग्भिस्तव जननि ! वाचां स्तुतिरियम्
यैः भासुरैविद्वद्रत्नैः शुभसम्मतिततिं प्रदाय अनुग्रहीतः तान् औदार्य-विभ्रतो कुलपतिवर्यान् डॉ० मिथिलाप्रसादत्रिपाठीमहाभागान् प्रति कृतज्ञताज्ञापनेन सह प्रणामाञ्जलयः निवेद्यन्ते। अनेकग्रन्थलेखकेभ्यः लब्राष्ट्रपतिपुरस्कारेभ्यः आचार्यश्री डॉ० नारायणशास्त्री-काङ्कर महाभागेभ्यः सादरं प्रणतिततीः समर्पयामि। अन्यैर्यैमहानुभावैरस्य ग्रन्थस्य लेखने प्रेरणाप्रदानेन प्रयोज्यप्रयोजकतया अनुग्रहकर्तृभिः यद् शुभसम्मति प्रदत्ता तेभ्योऽपि महानुभावेभ्यः कृतज्ञतया शतशो हार्दिकान् धन्यवादानुपहरामि। तेषां नामानि सन्ति-
1. आचार्या-अध्यक्षचराश्च डॉ. बृजेशकुमार शुक्लमहाभागाः (संस्कृत-पाली-औरप्राकृत विभाग लखनउविश्वविद्यालय-लखनऊ)
2. भूतपूर्वप्राचार्याः पूर्वाध्यक्षाः भूतपूर्वसिण्डिकेटसदस्याः आचार्याः डॉ. हरिप्रसादपाण्डेयमहाभागाः (वटोदरसंस्कृतमहाविद्यालयः म.स.वि. वि. वडोदरा)
3. डॉ. मायाप्रकाशपाण्डेयमहाभागाः हिन्दीविभागः (म.स.वि.वि. वडोदरा)
अन्येभ्योऽपि यत् मुद्रण-लिपिसम्पादनाय प्रूफसंशोधनादिकर्मणि यदमूल्यं सहाय्यं प्रदत्तं तेभ्योऽपि धन्यवादाः विलसन्तु। मच्छोधच्छात्रमिश्रोपाह्न-नन्दकिशोराय, ममापत्यनिर्विशेषाय आयुष्मते चि. शिवमशुक्लाय मदीयधर्मपल्यै श्रीमती शीलादेव्यै च धन्यवादपुरस्सरं शुभाशीर्वचांसि समुल्लसन्तु ।
चिन्तनप्रकाशनाध्यक्षेभ्यः (श्री रामसिंह जी) येषां सौहार्देन ग्रन्थोऽयं समुद्रितः, तेभ्योऽपि मदीयाः शतशो धन्यवादाः विलसन्तु ।
पर्यन्ते च अस्मिन् ग्रन्थे प्राच्यप्रतीच्यानां येषां केषां विदुषां समेषां मुद्रितामुद्रिता च ग्रन्थास्तद्गतविषयविचाराधाराश्च अनुशील्यविनिर्दिष्टास्तेषां विनम्रभावेन उपकारभारमुद्वहन्नहमधमर्णः। अपि च प्र ह्वीभूय विपश्चितः प्रार्थये यन्मदीयाः त्रुटीः संशोध्य तैः शास्त्रपरिचयोऽयं ग्रन्थः स्वीकर्त्तव्यः -इति शम्।
Astrology (115)
Ayurveda (106)
Gita (76)
Hinduism (1356)
History (144)
Language & Literature (1745)
Learn Sanskrit (26)
Mahabharata (29)
Performing Art (69)
Philosophy (452)
Puranas (117)
Ramayana (49)
Sanskrit Grammar (256)
Sanskrit Text Book (32)
Send as free online greeting card
Email a Friend
Manage Wishlist