Easy Returns
Easy Returns
Return within 7 days of
order delivery.See T&Cs
1M+ Customers
1M+ Customers
Serving more than a
million customers worldwide.
25+ Years in Business
25+ Years in Business
A trustworthy name in Indian
art, fashion and literature.

शास्त्रीयनिबन्ध-मञ्जषा: Shastriyanibandh-Manjasha

$38.48
$57
10% + 25% off
Includes any tariffs and taxes
Specifications
Publisher: Satyam Publishing House, New Delhi
Author Azad Mishra Madhukar
Language: Sanskrit Only
Pages: 251
Cover: HARDCOVER
9.5x6.5 inch
Weight 510 gm
Edition: 2024
ISBN: 9789383754373
HBU649
Delivery and Return Policies
Usually ships in 2 days
Returns and Exchanges accepted within 7 days
Free Delivery
Easy Returns
Easy Returns
Return within 7 days of
order delivery.See T&Cs
1M+ Customers
1M+ Customers
Serving more than a
million customers worldwide.
25+ Years in Business
25+ Years in Business
A trustworthy name in Indian
art, fashion and literature.
Book Description

पुरोवाक्

अनुभूतचरमेव सुधियाम् अध्यापनकर्मनिरतानां प्राचीनार्वाचीनविषयाध्यापकानां यद्ध्यापनसमकालमेव लेखनभाषणकलाद्वयम् उन्मिषति। तच्च लेखनं भाषणं वा शिक्षणकला- विकासाय, जिज्ञासूनां विषयावबोधाय, अवगतस्य विषयस्य विशदविवेचनाय प्रासंगिकानुभवचिन्तनाय च किमपि हितकरं संजायते। अत एव चिन्तनपरैः शिक्षाविद्भिः विश्वविद्यालयानुदानायोगमाध्यमेन कश्चन स्वानुभवो मूल्याङ्कनफलकः प्रवृत्तिप्रयोजकतया प्रत्यपादि। तेनानुबन्धशिरोमणिना प्रयोजनेनानता वशीभूता आधुनिका अपि प्राध्यापका यथातथं लेखने प्रवर्तन्ते ।

वस्तुतस्तु शास्त्रचिन्तनलेखनरीतिरियं पुराणी। तदुक्तम् -

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्। व्यसनेन न च मूर्खाणां निद्रया कलहेन वा।। इति।

संस्कृतशास्त्राणि पाठयतो मे चतुश्चत्वारिंशद्वर्षाणि व्यतीतानि । एकसप्तत्य-धिकैकोनविंशे ईशाब्देऽध्यापनमारब्धम्। तत आरभ्य नैके निबन्धा न्यबन्धिषत। तत्र प्रायः प्रमुखान् निबन्धान् प्रकाशयितुमैच्छम्। तदिच्छाजन्यक्तिमती मूर्तिमतीयं मञ्जूषा महीयताम्।

मञ्जूषायामस्यां निर्मलं स्वच्छं चन्द्रावदातं परिधानालङ्कारवृन्दमिव शास्त्रीय-निबन्ध संकुलं गोपायितुं शोभते सन्निधापितम्। तत्र केचन निबन्धा वर्णमालां व्यातन्वन्ति, केचिच्च पदप्रभावं जनयन्ति । व्याकरणस्य व्यावहारिक पक्षेऽस्पृष्टान् विषयनिवहान् उपसर्गनिपातान् संख्याशब्दांश्च विषयीकृत्य इहालेखितो निबन्धपुञ्जः । संस्कृत-व्याकरणदर्शने शब्दार्थसम्बन्धानां सिद्धिरद्वितीया, भाषाशैली च तस्य काचन काञ्चनयुता स्वकीया इति महाभाष्योदाहरणेन निदर्शितम्। इह लेखकस्तादृशानपि विषम-विषयान् कुक्षीकृत्य सूक्ष्मेक्षिकया विधिना बहुधा संपरीक्ष्य निवन्ध विद्रुममुक्ता लङ्कारान् ग्रथ्नाति विदुषां परितोषाय। सामान्यव्याकरण च्छात्रेभ्योऽपि सुखं बोधाय शोधच्छात्राणामपि प्रवृत्तये इह केचन शास्त्रीया निबन्धाः सन्ति सन्निहिताः। समस्या समाधानमूलानां चिन्तन पराणामपि निबन्धानामिह संचयो मञ्जूषायां वस्तु-मुक्ता-वैविध्यं सूचयति । पुस्तके ज्यौतिषालङ्कारशास्त्र-जैनदर्शनानि संश्रित्य सन्ति अल्पा निबन्धाः, परं ते मौलिकविषयं विवेचयन्ति। एवमेवेह निदर्शनधिया सांख्ययोगो-पनिषद्विषयाः सन्ति आलेखिताः, मन्ये तत्र भागवतस्य भक्तिप्रधानकाव्यत्वं कमपि नवीनं मनोरमं मार्गमुन्मीलयति। एवञ्च मञ्जूषायामस्यां सप्तत्रिंशन्निबन्ध मुक्तालङ्काराः प्रकाशन्ते स्वां-स्वां दीप्तिमादधानाः परिधेया विभिन्नेषु अङ्गेषु। तत्र भाषा यथाविषयं शास्त्रीया सरला च बोधमयी स्फुटं प्रवहन्ती मनो हरतीत्यलं हस्तकङ्कणस्य दर्पणप्रस्तावेन।

भगवदिच्छया कस्याञ्चिदपि फलनिष्पत्तौ भवति समुदयः कारणकलापानाम्।

ईश्वरातिरिक्तः कोऽपि जनोऽनपेक्ष्यसहायो नेष्टे फलमुत्पादयितुम्। किञ्च ईश्वरोऽपि सहायमपेक्ष्यैव जगन्निर्माति। तदुक्तम्-

शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुम्, न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि। अतस्त्वामाराध्यां हरिहरविरिञ्च्यादिभिरपि, प्रणन्तुं स्तोतुं वा कथमक्तपुण्यः प्रभवति ।। (सौन्दर्यलहरी-१)

मञ्जूषाया अस्या अक्षरशिल्पसंशोधने सहायकानां भवति महत्त्वपूर्ण योगदानम्। तत्र सन्ति प्रमुखाः राष्ट्रिय पंस्कृतसंस्थानस्य मानितविश्वविद्यालयस्य भोपालपरिसरस्य शास्त्राधीतिनो विद्वांसः प्राध्यापकाः प्रो. सुबोधशर्मा व्याकरणविभागाध्यक्षः, डा. सनन्दनकुमारत्रिपाठी साहित्ये सहाचार्यः, डा. व्रजभूषण ओझा, डा. प्रदीपकुमारपाण्डेयः, डा. कैलासचन्द्रदासः, व्याकरणे सहायकाचार्याः। हर्षनिर्भरक्षणेऽस्मिन् एतेषां कृतकारितां बिभ्रदहं मङ्गलोदर्काय भगवन्तं भूतभावनं भावये। इह अक्षरशिल्पसंयोजनविधौ श्री सुमितसक्सेना महोदयः स्वस्य सहाकाभ्यां श्री मोहम्मद नासिम अंसारी, श्री प्रेमशंकर राम महोदयाभ्यां सह सर्वविधं सुन्दरं रूपमाधातुम् अविश्रमं श्रमं व्यधात्। अवसरेऽस्मिन् एतान् सर्वान् मयि धत्तानुरागान् सस्नेहाशिषा योजयामि, एतेषां मङ्गलं च भावयामि। जानन्ति भवन्तः, प्रकाशनं विना निबन्धालङ्काराणां मञ्जूषारूपं न सिद्धयेत्, न वा भवतां करकुशेशयौ समुपेयादिदम्, अतोऽमन्दानन्दकालेऽस्मिन् सत्यम् पब्लिशिंग हाउस, नई दिल्ली स्वामिने श्री राजदेवपाण्डेय महाभागाय प्रकाशकाय भूयो भूयो धन्यवादान् वितरामि, तस्य मङ्गलं च कामये।

Frequently Asked Questions
  • Q. What locations do you deliver to ?
    A. Exotic India delivers orders to all countries having diplomatic relations with India.
  • Q. Do you offer free shipping ?
    A. Exotic India offers free shipping on all orders of value of $30 USD or more.
  • Q. Can I return the book?
    A. All returns must be postmarked within seven (7) days of the delivery date. All returned items must be in new and unused condition, with all original tags and labels attached. To know more please view our return policy
  • Q. Do you offer express shipping ?
    A. Yes, we do have a chargeable express shipping facility available. You can select express shipping while checking out on the website.
  • Q. I accidentally entered wrong delivery address, can I change the address ?
    A. Delivery addresses can only be changed only incase the order has not been shipped yet. Incase of an address change, you can reach us at help@exoticindia.com
  • Q. How do I track my order ?
    A. You can track your orders simply entering your order number through here or through your past orders if you are signed in on the website.
  • Q. How can I cancel an order ?
    A. An order can only be cancelled if it has not been shipped. To cancel an order, kindly reach out to us through help@exoticindia.com.
Add a review
Have A Question
By continuing, I agree to the Terms of Use and Privacy Policy
Book Categories